लघुसिद्धान्तकौमुदी · वरदराज
1.4.51
अकथितं च
लघुसिद्धान्तकौमुदी 888 · प्रकरण 37, which opens at प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा · rule 5 of 15 in it
No note has been written for this rule yet.
वरदराज writes under it
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् । दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ-मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ गां दोग्धि पयः । बलिं याचते वसुधाम् । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि॥ इति द्वितीया ॥ <<स्वतन्त्रः कर्ता>> <{LSK694}> - क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥
uncheckedashtadhyayi.com (prakriyā)
This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.