लघुसिद्धान्तकौमुदी · वरदराज

back to the poem
← प्रकरण 38

2.1.4

सह सुपा

लघुसिद्धान्तकौमुदी 901 · प्रकरण 38, which opens at समर्थः पदविधिः · rule 3 of 3 in it

No note has been written for this rule yet.

वरदराज writes under it

सुप् सुपा सह वा समस्यते ॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूत इति लौकिकः । 'पूर्व अम् भूत सु' इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः । <<इवेन समासो विभक्त्यलोपश्च>> (वार्त्तिकम्) । वागर्थो इव वागर्थाविव ॥ इति केवलसमासः ॥ १ ॥

uncheckedashtadhyayi.com (prakriyā)

This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.