लघुसिद्धान्तकौमुदी · वरदराज

back to the poem
← प्रकरण 32

3.3.156

हेतुहेतुमतोर्लिङ्

लघुसिद्धान्तकौमुदी 761 · प्रकरण 32, which opens at अभिज्ञावचने लृट् · rule 5 of 5 in it

No note has been written for this rule yet.

वरदराज writes under it

वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । <<भविष्यत्येवेष्यते>> (वार्त्तिकम्) । नेह । हन्तीति पलायते ॥ विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । यजेत ॥ निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत ॥ आमन्त्रणं कामचारानुज्ञा । इहासीत ॥ अधीष्टं सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेद्भवान् ॥ संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् ॥ प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ॥ इटि लकारार्थप्रक्रिया ॥ इति तिङन्तं समाप्तम् ॥

uncheckedashtadhyayi.com (prakriyā)

This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.