लघुसिद्धान्तकौमुदी · वरदराज

back to the poem
← प्रकरण 59

5.4.57

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्

लघुसिद्धान्तकौमुदी 1240 · प्रकरण 59, which opens at इवे प्रतिकृतौ · rule 10 of 10 in it

No note has been written for this rule yet.

वरदराज writes under it

द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे । <<डाचि विवक्षिते द्वे बहुलम्>> (वार्त्तिकम्) इति डाचि विवक्षिते द्वित्वम् । <<नित्यमाम्रेडिते डाचीति वक्तव्यम्>> (वार्त्तिकम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् ? ईषत्करोति । द्व्यजवरार्धात्किम् ? श्रत्करोति । अवरेति किम् ? खरटखरटाकरोति । अनितौ किम् ? पटिति करोति ॥ इति स्वार्थिकाः ॥ १६ ॥ ॥ इति तद्धिताः ॥

uncheckedashtadhyayi.com (prakriyā)

This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.