लघुसिद्धान्तकौमुदी · वरदराज
7.4.28
रिङ् शयग्लिङ्क्षु
लघुसिद्धान्तकौमुदी 541 · प्रकरण 12, which opens at लः कर्मणि च भावे चाकर्मकेभ्यः · rule 171 of 179 in it
No note has been written for this rule yet.
वरदराज writes under it
॥ अथ उभयपदिनः ॥ {$ {! 1 श्रिञ् !} सेवायाम् $} (धातुपाठे <{01.1044}>) ॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ {$ {! 2 भृञ् !} भरणे $} (धातुपाठे <{01.1045}>) ॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥ <<रिङ् शयग्लिङ्क्षु>> । शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥
uncheckedashtadhyayi.com (prakriyā)
This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.