लघुसिद्धान्तकौमुदी · वरदराज
8.1.23
त्वामौ द्वितीयायाः
लघुसिद्धान्तकौमुदी 331 · प्रकरण 8, which opens at हो ढः · rule 82 of 108 in it
No note has been written for this rule yet.
वरदराज writes under it
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥ श्रीशस्तवाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः। स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स नः॥ <<एकवाक्ये युष्मदस्मदादेशा वक्तव्याः>> (वार्त्तिकम्) । एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। <<एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः>> (वार्त्तिकम्)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥
uncheckedashtadhyayi.com (prakriyā)
This corpus carries no example of the rule. Meghadūta is one poem of 120 verses, and most of the abridgement reaches none of it.